|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.167. अध्यायः 167
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण दुर्योधनसैन्यस्य रथातिरथसंख्यानम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-167-0(37620)
भीष्म उवाच। 5-167-0x(3871)
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप।
प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ॥ 5-167-1(37621)
एतस्य सेना दुर्धर्षा समरे प्रतियायिनः।
विकृतायुधभूयिष्ठा वायुवेगसमा जवे ॥ 5-167-2(37622)
द्रोणपुत्रो महेष्वासः सर्वानेवातिधन्विनः ।
समरे चित्रयोधी च दृढास्त्रश्च महारथः ॥ 5-167-3(37623)
एतस्य हि महाराज यथा गाण्डीवधन्वनः।
शरासनविनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥ 5-167-4(37624)
नैष शक्यो मया वीरः संख्यातुं रथसत्तमः ।
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महारथः ॥ 5-167-5(37625)
क्रोधस्तेजश्च तपसा संभृतोश्रमवासिनाम् ।
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ॥ 5-167-6(37626)
दोषस्त्वस्य महानेको येनैव भरतर्षभ ।
न मे रथो नातिरथो मतः पार्थिवसत्तम ॥ 5-167-7(37627)
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः ।
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ॥ 5-167-8(37628)
हन्यादेकरथेनैव देवानामपि वाहिनीम् ।
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ॥ 5-167-9(37629)
असंख्येयगुणो वीरः प्रहन्ता दारुणद्युतिः।
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ॥ 5-167-10(37630)
युगान्ताग्निसमः क्रोधात्सिंहग्रीवो महाद्युतिः ।
एष भारत युद्धस्य पृष्ठं संशयमिष्यति ॥ 5-167-11(37631)
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः ।
रणे कर्म महत्कर्ता अत्र मे नास्ति संशयः ॥ 5-167-12(37632)
अस्त्रवेगानिलोद्भूतः सेनाकक्षेन्धनोत्थितः ।
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति रणे धृतः ॥ 5-167-13(37633)
रथयूथपयूथानां यूथपोऽय नरर्षभः ।
भरद्वाजात्मजः कर्ता कर्म तीव्रं हितं तव ॥ 5-167-14(37634)
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः ।
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः ॥ 5-167-15(37635)
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् ।
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ॥ 5-167-16(37636)
श्लाघते यं सदा वीर पार्थस्य गुणविस्तरैः ।
पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यति ॥ 5-167-17(37637)
हन्यादेकरथेनैव देवगन्धर्वमानुषान् ।
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ॥ 5-167-18(37638)
पौरवो राजशार्दूलस्तव राजन्महारथः ।
मतो मम रथोदारः परवीररथारुजः ॥ 5-167-19(37639)
स्वेन सैन्येन महता प्रतपञ्शत्रुवाहिनीम्।
प्रधक्ष्यति स पाञ्चालान्कक्षमग्निगतिर्यथा ॥ 5-167-20(37640)
सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः।
तव राजन्रिपुबले कालवत्प्रचरिष्यति॥ 5-167-21(37641)
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः ।
विचरिष्यन्ति सङ्ग्रामे निन्घन्तः शास्त्रवांस्तव ॥ 5-167-22(37642)
वृषसेनो रथस्तेऽग्र्यः कर्णपुत्रो महारथः ।
प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः ॥ 5-167-23(37643)
जघसन्धो महातेजा राजन्रथवरस्तव ।
त्यक्ष्यते समरे प्राणान्माधवः परवीरहा ॥ 5-167-24(37644)
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः ।
रथेन वा माहबाहुः क्षपयञ्शत्रुवाहिनीम् ॥ 5-167-25(37645)
रथ एष महाराज मतो मे राजसत्तम।
त्वदर्थे त्यक्ष्यते प्राणान्सहसैन्यो महारणे ॥ 5-167-26(37646)
एष विक्रान्तयोधी च चित्रयोधी च संगरे ।
वीतभीश्चापि ते राजञ्शत्रुभिः सह योत्स्यते ॥ 5-167-27(37647)
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तनः ।
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ॥ 5-167-28(37648)
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन।
यथा सततगो राजन्स हि हन्यात्परान्रणे ॥ 5-167-29(37649)
सेनापतिर्महाराज सत्यवांस्ते महारथः ।
रणेष्वद्भुतकर्मा च रथी पररथारुजः ॥ 5-167-30(37650)
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन ।
उत्स्मयन्नुत्पतत्येष परान्रथपथे स्थितान् ॥ 5-167-31(37651)
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् ।
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ॥ 5-167-32(37652)
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा महारथः ।
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ॥ 5-167-33(37653)
एष राक्षससैन्यानं सर्वेषां रथसत्तमः ।
मायावी दृढवैरश्च समरे विचरिष्यति ॥ 5-167-34(37654)
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् ।
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ॥ 5-167-35(37655)
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः ।
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ॥ 5-167-36(37656)
ततः सखायं गान्धारे मानयन्पाकशासनम् ।
अकरोत्संविदं तेन पाण्डवेन महात्मना ॥ 5-167-37(37657)
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः ।
ऐरावतगतो राजा देवानामिव वासवः ॥ ॥ 5-167-38(37658)
इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-167-6 आश्रमवासिनामृषीणां क्रोधस्तेजश्व तयोः समुदायरूप इत्यर्थः ॥ 5-167-11 पृष्ठं शेषम् ॥ 5-167-31 उत्स्मयन् हृष्यन् ॥ 5-167-37 संविदं मैत्रीम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|